Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
३६
प्रमाणनयतत्त्वालोकालङ्कारः ।
यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥
यथा तथागतमतम् ॥ ३१ ॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः॥ ३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ यथा बभूव जवति भविष्यति सुमेरुरित्यादयोभिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृकू सिद्धान्यशब्दवदित्यादिः ||३५|| पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समनिरूढः ॥ ३६ ॥ इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त
दाभासः ॥ ३८ ॥
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभि धेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३९ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40