Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 38
________________ ३८ प्रमाणनयतत्त्वालोकालङ्कारः । वर्तमान विषयाहजुसूत्राद्वयवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ ४९ ॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुसुत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ ५० ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५१ ॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्सम मिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥५२॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥ प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥ ५५॥ चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणःप्रतिक्षेत्रं भिन्नःपौगालिकादृष्टवांश्चायम्५६ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृस्नकर्मक्षयस्वरूपा सिद्धिः ।। ५७ ॥ इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्वालोकालङ्कारे नयात्मस्वरू पनिर्णयो नाम सप्तमः परिच्छेदः ॥ ७ ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40