Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः। ाप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिातेरुद्भावनं व्यर्थम् ॥ ३७॥ पक्षीकृतएवविषये साधनस्य साध्येन व्याप्तिरन्तयातिरन्यत्रतुबहियातिः यथाऽनैकान्तात्मकं वस्तु सत्त्वस्यतथैवोपपत्तेः । अग्निमानयं देशो धूमवत्वात् य एवं स एवं यथा पाकस्थानम् ॥३८॥ नोपनयनिगमनयोरपिपरप्रतिपत्तौ सामर्थ्यपक्षहेतुप्रयागोदेव तस्याः सद्भावात् ॥ ३९ ॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेणदृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥ ४० ॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥ ४१॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ ४२ ॥ स द्वेधा साधर्म्यतो वैधयंतश्च ।। ४३॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ताप्रकाश्यते स साधर्म्यदृष्टान्तः॥ ४४ ॥ यथा यत्र धूमस्तत्र वह्निर्यथा महानसः॥४५॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40