Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 23
________________ प्रमाणनयतत्त्वालोकालङ्कारः। २३ विशेषोपि द्विरूपो गुणः पर्यायश्च ॥६॥ गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तयादिः ॥७॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिवा इतिविषयस्वरुपनिर्णयो नामपश्चमः परिच्छेदः ॥ यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १॥ तद्विविधमानन्तर्येण पारम्पर्येण च ॥ २॥ तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम्॥४॥ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥ तत्प्रमाणतः स्याद्भिन्नमनिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः॥६॥ उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतो निचार इति न विभावनीयम् ॥ ७ ॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40