Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 24
________________ प्रमाणनयतत्त्वालोकालङ्कारः । तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ८ प्रमाणतया परिणतस्यैवात्मनः फलतया २४ परिणतिप्रतीतेः ॥ ९॥ यः प्रमिमीते सएवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिजिरस्खलितमनुभवात् ॥ १० ॥ इतरथा स्वपरयोः प्रमाणफलव्यवस्था विप्लवः प्रसज्येत ॥ ११ ॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादनिन्नेनसाक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥ १२॥ कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥१३॥ साध्यसाधन जावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ ||१४|| प्रमाणंहि करणाख्यं साधनं, स्वपरव्यवसितौ साधकतमत्वात् ॥ १५ ॥ स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलंतु साध्यं, प्रमाणनिष्पाद्यत्वात् ॥ १६ ॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ कर्तृक्रिययोः साध्यसाधक नावेनोपलम्नात् ॥१८॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40