Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
प्रमामनयतत्त्वालोकालङ्कारः। २७ कस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥ ४१॥ अनुमाननिराकृत्साध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरगो वा ॥ ४ ॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनै रजनीभोजनं भजनीयम् ॥ ३॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५ ॥ अनभीप्सितसाध्यधर्माविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः॥ ४६॥ असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ यस्यान्यथानुपपत्तिःप्रमाणेन न प्रतीयते सोऽसिद्धः

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40