Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 29
________________ मनाणनयतत्त्वालोकालङ्कारः। २९ विकलः सन्दिग्धसाध्यधर्मा सन्धिग्धसाधनधर्मा संन्दिग्धोभयधा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥ ५९॥ तत्रापौरुषेयः शब्दोऽमुर्त्तत्वाद् दुःखवदिति साध्य. धर्मविकलः ॥ १॥ ६०॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥ १ ॥ ६१ ॥ कलशवदित्युभयधर्मविकलः ॥ १ ॥ ६॥ रागादिमानयं वक्तृत्वादेवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥ ३ ॥ ६३ ॥ मरणधर्मायं रागादिमत्वात् मैत्रवदिति सदिग्ध साधनधर्मा ॥५॥ ६४ ॥ नायं सर्वदर्शीरागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोमयधर्मा ॥ ६ ॥६५॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः ॥७॥६६ ॥ अनित्यः शब्दः कृतकत्वात् घटवदित्यप्रदर्शितान्वयः॥८॥६७ ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40