Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः। क्वचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य त. स्याप्राधान्याऽनुपपत्तेः ॥ २५॥ निषेधप्रधानएव शब्द इत्यपि प्रायुक्तन्यायादपास्तम् ॥ २६ ॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः ॥२७॥ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥ २८॥ युगपद्विधिनेषेधात्मनो ऽर्थस्यावाचक एवासौ इतिवचो न चतुस्त्रम् ॥ २९ ॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥ ३० ॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगदवाचकएव स इत्येकान्तोऽपि नकान्तः ॥ ३१ ॥ निषेधात्मनः सहद्वयात्मनश्चार्थस्य वाचकत्वावा. चकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥३२॥ निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचकएवायमित्यप्यवधारणं न रमणीयम् ॥३३॥ इतरथापि संवेदनात् ॥ ३४॥ क्रमाक्रमाभ्यामुभयम्वभावस्य भावस्थ वाचकश्चा

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40