Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 19
________________ प्रमाणनयतत्त्वालोकालङ्कारः । तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमोभङ्गः ॥ १५ ॥ स्यान्नास्त्येव सर्वमितिनिषेधकल्पनया द्वितीयः॥ १६॥ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥ १७ ॥ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ १८ ॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः ॥ १९ ॥ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्वधिनिषेधकल्पनया च षष्ठः ॥ २० ॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतोविधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमइति ॥ २१ ॥ १९ विधिप्रधानएव ध्वनिरिति न साधुः ॥ २२ ॥ निषिधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥ २३ ॥ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२४॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40