Book Title: Prakaran Pushpmala
Author(s): Ratnasinhsuri, Devvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 77
________________ नि-wala गाहना इत्यर्थः / तैरेव च यत्स्पर्शनमवगाहनं जघन्यपदस्य तमिगोदमात्रावगाहनस्पर्शनं तस्मात् खण्डगोलकनिष्पादकनिगोदस्तस्याऽसंस्पर्शनादित्यर्थः / भूम्यासन्नापवरकमध्यकोणान्तिमप्रदेशसदृशो हि जघन्यपदाख्यः प्रदेशः, तं चालोकसंबन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलकनिष्पादका निगोदाः; प्रदेशपरिवृद्धिहानिभ्यां तुल्यावगाहनानामपरनिगोदानां तत्रानुपलभ्यमानत्वात् / तत्र किल कल्पनया जघन्यपदं जीवशतं स्पृशति / परमाथतस्त्वेकोऽपि निगोदोऽनन्तजीवाधिष्ठितो यत्र चैको निगोदस्तत्रकावगाहना असंख्येया निगोदा इति / तस्य च कल्पनाकाल्पतस्य जीवशतस्य प्रत्येकं कल्पनयैव प्रदेशलक्षं तत्रावगाहामाते / परमार्थतस्तु समस्तलोकाकाशमदेशराशितुल्यप्रदेश एकैकोऽपि जीवोऽसंख्येयान् प्रदेशानवगाहत इति / एवं च काल्पनिकप्रदेशलक्षगणने जघन्यपदे कोटी जीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र जीवपदेशा इति / अथोत्कृष्टपदजीवप्रदेशप्रमाणमुच्यते-'फुसणा असंखगुणत्ता' इति स्पर्शनाया उत्कृष्टपदे पूर्णगोलकनिष्पादकनिगोदैः स्पर्शनाया यदसंख्यातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्मादेतोरुस्कृष्टपदेऽसंख्यातगुणा जीवप्रदेशा जघन्यपदापेक्षया भवन्ति / उत्कृ. एपदं हि संपूर्णगोलकानगोदरेकावगाहनरैसंख्येपैस्तथोत्कृष्टपदाविमोचनेन प्रथमनिगोदावगाहनापेक्षया एकैकपदेशश्रेणिपरिहारिभिः प्रत्येकमसंख्येयैरेव स्पृष्टम् / तच्च किल कल्पनया कोटिसहस्रेण जीवानां स्पृश्यते / तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाहनाजीवप्रदेशानां दशकोटिकोट्योऽवगाढाः स्युः / इत्येवं उत्कृष्टपदे तेऽसंख्येयगुणा भावनीया इति // 5 // .. ટકાઈ–વન્યપદે એક આકપ્રદેશ ઉપર છવપ્રદેશ

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118