Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
वस्तुपालतीर्थयात्रावर्णनम् मन्त्री सत्कृत्य देवार्चनरचनपरानर्चयित्वायमुच्चै___ रम्बाप्रद्युम्नशाम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥ १९ ॥ असाधि साधर्मिकमानदानैरनेन नानाविधधर्मकर्म । अबाधि सा धिक्करणेन माया निर्माय निर्मायमनः सुपूजाम् ॥२०॥ पुरः पुरः पूरयता पयांसि घनेन सान्निध्यकृता कृतीन्दुः। स्वकीर्त्तिवन्नव्यनदीर्ददर्श ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥२१॥ इति प्रतिज्ञामिव नव्यकीर्तिप्रियः प्रयाणैरतिवाह्य वीथीम् । आनन्दनिस्यन्दविधिर्विधिज्ञः पुरं प्रपेदे धवलककं सः ॥ २२॥ समं तेजःपालान्वितपुरजनैर्वीरधवल
प्रभुः प्रत्युद्यातस्तद्नु सदनं प्राप्य सुकृती। युतः सङ्घनासौ जिनपतिमथोत्तार्य रथत
स्ततः सङ्घस्यार्चामशनवसनाद्यैर्व्यरचयत् ॥ २३ ॥ अथ प्रसादाद्भूभर्तुः प्राप्य वैभवमद्भुतम् । मन्त्रीशः सफलीचक्रे स्वमनोरथपादपम् ॥ २४ ॥ भक्त्याखण्डलमण्डपं नवनवश्रीकेलिपर्यद्धिका
वर्य कारयति स्म विस्मयमयं मन्त्री स शत्रुञ्जये । यत्र स्तम्भनरैवतप्रभुजिनौ शाम्बाम्बिकालोकन
प्रद्युम्नप्रभृतीनि किश्च शिखराण्यारोपयामासिवान् ॥ २५ ॥ गुरुपूर्वजसम्बन्धिमित्रमूर्त्तिकदम्बकम् । तुरङ्गसङ्गतं मूर्तिद्वयं स्वस्यानुजस्य च ॥ २६ ॥ शातकुम्भमयान् कुम्भान्पश्च तत्र न्यवेशयत् । पञ्चधा भोगसौख्यश्रीनिधानकलशानिव ॥ २७ ॥ सौवर्ण दण्डयुग्मं च प्रासाद्वितये न्यधात् । श्रीकीर्त्तिकन्दयोरुद्यन्नूतनाङ्करसोदम् ॥ २८ ॥ कुन्देन्दुसुन्दरग्रावपावनं तोरणद्वयम् । इहैव श्रीसरस्वत्योः प्रवेशायैव निर्ममे ॥ २९ ॥ अर्कपालितकं ग्राममिह पूजाकृते कृती। श्रीवीरधवलक्ष्मापाद्दापयामास शासने ॥ ३०॥ श्रीपालिताख्ये नगरे गरीयस्तरङ्गालीलादलितार्कतापम् । तडागमागःक्षयहेतुरेतच्चकार मन्त्री ललिताभिधानम् ॥ ३१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/17ff7b5bc72b4176838c4bd84ae83197b2d848731632538008203c6965f2c200.jpg)
Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172