Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
वस्तुपालतीर्थयात्रावर्णनम् प्राप्यादेशममुं प्रभोर्विरचयामासे समासेदुषा
प्रागल्भीमुदयप्रभेण चरितं निस्यन्दरूपं गिराम् ॥ ५९॥ किञ्च श्रीमलधारिगच्छजलधिप्रोल्लासशीतयुते
स्तस्यश्रीनरचन्द्रसूरिसुगुरोर्माहात्म्यमाशास्महे । यत्पाणिस्मितपद्मवासविकसत्किाल्कसंवासिताः
सन्तः सन्ततमाश्रिताः किल मया भृङ्गयेव भान्ति क्षितौ ॥६०॥ श्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीसङ्घभर्तुर्मया
भ्रे काव्यदलानि सङ्कटयितुं कर्मान्तिकत्वं परम् । किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जग
त्पावित्र्यक्षमपादपङ्कजरजःपुजैः प्रतिष्ठास्पदम् ॥ ६१॥ नित्यं व्योमनि नीलनीरजरुचौ यावत्त्विषामीश्वरो
दिक्पालावलिबन्धुरे कुवलये यावच्च हेमाचलः । हृत्पद्म विदुषामिदं सुचरितं तावन्नवाविर्भव
त्सौरभ्यप्रसरं चिरं कलयतात् किञ्जल्कलक्ष्मीपदम् ॥ ६२ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिच
रिते लक्ष्म्यके महाकाव्ये श्रीवस्तुपालतीर्थयात्रोत्सववर्णनो नाम पञ्चदशः सर्गः । मुक्तेर्मार्गे यदेतद्विरचितमुचितं सङ्घभर्तुश्चरित्रं
सत्रं पावित्र्यपात्रं पथिकजनमनःखेदविच्छेदहेतुः । अस्मिन्सौरभ्यगर्भामसमरसवती सत्कथां पान्थसार्थाः ___प्राप्य श्रीवस्तुपाल प्रवरनवरसास्वादमास्वादयन्ति ॥ १॥ श्रीशारदैकसदनं हृदयालवः के नो सन्ति हन्त सकलासु कलासु निष्णाः । तादृक्परस्य ददृशे सुकवित्वतत्वबोधाय बुद्धिविभवस्तु न वस्तुपालात् ॥२॥
नैव व्यापारिणः के विद्धति करणग्राममात्मैकवश्यं
लेभे सद्योगसिद्धेः फलममलमलं केवलं वस्तुपालः । आकल्पस्थायि धर्माभ्युदयनवमहाकाव्यनाम्ना यदीयं विश्वस्यानन्दलक्ष्मीमिति दिशति यशोधर्मरूपं शरीरम् ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1141ca6738b6a8062c312b51c5c4b5d741e61f5f2d0c184a293266c8d4f75f49.jpg)
Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172