Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
प्राचीनगूर्जरकाव्यसङ्ग्रहः विभुमर्चति मेघरवो बलानकं गिरिविदारणश्चक्रे । यत्र चतुर्दारमसौ गिरि० ॥ १४ ॥ यत्र सहस्राम्रवणांतरस्ति रम्या सुवर्णचैत्यानाम् । चतुरधिकविंशतिरयं गिरि० ॥ १५ ॥ द्वासप्ततिर्जिनानां लक्षारामेऽस्ति यत्र तु गुहायाम् । सचतुर्विशतिकासौ गिरि० ॥१६॥ वर्षसहस्रद्वितयं प्रावर्त्तत यत्र किल शिवासूनोः। लेप्यमयी प्रतिमासौ गिरि० ॥ १७ ॥ लेपगमेऽम्बादेशात्प्रभुचैत्यं यत्र पश्चिमाभिमुखम् । रत्नोऽस्थापयतासौ गिरि० ॥१८॥ काश्चनबलानकान्तः समवसृतेस्तन्तुनेह बिम्बमिदम् । रत्नेनानीतमसौ गिरि० ॥ १९॥ बौद्धनिषिद्धः सडो नेमिनतौ यत्र मन्त्रगगनगतिम् । जयचन्द्रमादिशदसौ गिरि० ॥२०॥ तारां विजित्य बौद्धान्निहत्य देवानवन्दयत्संघम् । जयचन्द्रो यत्रायं गिरि० ॥ २१ ॥ नृपपुरतः क्षपणेभ्यः कुमायुदितगाथयाम्बयाlत यः। श्रीसङ्काय सदायं गिरि० ॥ २२॥ नित्यानुष्ठानान्तस्ततोऽनुसमयं समस्तसकेन । यः पठ्यतेऽनिशमसौ गिरि० ॥ २३ ॥ दीक्षाज्ञानध्यानव्याख्यानशिवावलोकनस्थाने । प्रभुचैत्यपावितोऽसौ गिरि०॥ २४ ॥ राजीमतीचन्द्रदीगजेन्द्रपदकुण्डनागझर्यादौ । यः प्रभुमूर्तियुतोऽयं गिरि० ॥ २५॥ छन्त्राक्षरघण्टाञ्जनबिन्दुशिवशिलादि यत्रहार्यस्ति । कल्याणकारणमयं गिरि० ॥ २६ ॥ याकुड्यमात्यसज्जनदण्डेशाद्या अपि व्यधुर्यत्र । नेमिभवनोबृतिमसौ गिरि० ॥ २७ ॥ कल्याणत्रयचैत्यं तेजःपालो न्यवीविशन्मन्त्री। यन्मेखलागतमसौ गिरि० ॥ २८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/04ef99ca00453811d200be309be79bd483045ba493a615626c43bb79c5dc4532.jpg)
Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172