Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
APPENDIX VII. श्रीगिरिनारकल्पः।
वरधर्मकीर्तिविद्यानन्दमयो यत्र विनतदेवेन्द्रः । स्वस्तिश्रीनेमिरसौ गिरिनारगिरीश्वरो जयति ॥१॥ नेमिजिनो यदुराजीमतीत्य राजीमतीत्यजनतो यम् । शिश्राय शिवायासौ गिरि० ॥२॥ स्वामी छत्रशिलान्ते प्रव्रज्य यदुच्चशिरसि चक्राणः । ब्रह्मावलोकनमसौ गिरि० ॥ ३ ॥ यत्र सहस्राम्रवणे केवलमाप्यादिशद्विभुर्धर्मम् । लक्षारामे सोऽयं गिरि० ॥ ४ ॥ निर्वृतिनितम्बिनीवरनितम्बसुखमाप यनितम्बस्थः । श्रीयदुकुलतिलकोऽयं गिरि० ॥५॥ बुद्धा कल्याणत्रयमिह कृष्णो रूप्यरुश्ममणिबिम्बम् । चैत्यत्रयमकृताऽयं गिरि०॥६॥ पविना हरिय॑न्तर्विधाय विवरं व्यधाद्रजतचैत्यम् । काञ्चनबलानकमयं गिरि० ॥७॥ तन्मध्ये रत्नमयीं प्रमाणवर्णान्वितां चकार हरिः । श्रीनेमेर्मूर्त्तिमसौ गिरि० ॥ ८॥ स्वकृतैतद्विम्बयुतं हरित्रिबिम्बं सुराः समवसरणे । न्यद्धन्त यदन्तरसौ गिरि०॥९॥ शिखरोपरि यत्राम्बाऽवलोकनशिरसि रङ्गमण्डपके । शम्बो बलानकेऽसौ गिरि० ॥ १० ॥ यत्र प्रद्युम्नपुरः सिद्धिविनायकसुरः प्रतीहारः । चिन्तितसिद्धिकरोऽसौ गिरि० ॥ ११ ॥ तत्प्रतिरूपं चैत्यं पूर्वाभिमुखं तु निवृतिस्थाने । यत्र हरिश्चक्रेऽसौ गिरि० ॥ १२ ॥ तीर्थेतिस्मरणाद् यत्र यादवाः सप्त कालमेघाद्याः । क्षेत्रपतामापुरसौ गिरि०॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9acc0576f55153f092b13539733d6243bce1964c5e40f3b04815fe7b9c2ebd84.jpg)
Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172