SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ APPENDIX VII. श्रीगिरिनारकल्पः। वरधर्मकीर्तिविद्यानन्दमयो यत्र विनतदेवेन्द्रः । स्वस्तिश्रीनेमिरसौ गिरिनारगिरीश्वरो जयति ॥१॥ नेमिजिनो यदुराजीमतीत्य राजीमतीत्यजनतो यम् । शिश्राय शिवायासौ गिरि० ॥२॥ स्वामी छत्रशिलान्ते प्रव्रज्य यदुच्चशिरसि चक्राणः । ब्रह्मावलोकनमसौ गिरि० ॥ ३ ॥ यत्र सहस्राम्रवणे केवलमाप्यादिशद्विभुर्धर्मम् । लक्षारामे सोऽयं गिरि० ॥ ४ ॥ निर्वृतिनितम्बिनीवरनितम्बसुखमाप यनितम्बस्थः । श्रीयदुकुलतिलकोऽयं गिरि० ॥५॥ बुद्धा कल्याणत्रयमिह कृष्णो रूप्यरुश्ममणिबिम्बम् । चैत्यत्रयमकृताऽयं गिरि०॥६॥ पविना हरिय॑न्तर्विधाय विवरं व्यधाद्रजतचैत्यम् । काञ्चनबलानकमयं गिरि० ॥७॥ तन्मध्ये रत्नमयीं प्रमाणवर्णान्वितां चकार हरिः । श्रीनेमेर्मूर्त्तिमसौ गिरि० ॥ ८॥ स्वकृतैतद्विम्बयुतं हरित्रिबिम्बं सुराः समवसरणे । न्यद्धन्त यदन्तरसौ गिरि०॥९॥ शिखरोपरि यत्राम्बाऽवलोकनशिरसि रङ्गमण्डपके । शम्बो बलानकेऽसौ गिरि० ॥ १० ॥ यत्र प्रद्युम्नपुरः सिद्धिविनायकसुरः प्रतीहारः । चिन्तितसिद्धिकरोऽसौ गिरि० ॥ ११ ॥ तत्प्रतिरूपं चैत्यं पूर्वाभिमुखं तु निवृतिस्थाने । यत्र हरिश्चक्रेऽसौ गिरि० ॥ १२ ॥ तीर्थेतिस्मरणाद् यत्र यादवाः सप्त कालमेघाद्याः । क्षेत्रपतामापुरसौ गिरि०॥ १३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy