Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 151
________________ APPENDIX III. श्रीउजयन्तस्तवः नामभिः श्रीरैवतकोजयन्तायैः प्रथामितम् । श्रीनेमिपावितं स्तौमि गिरिनारं गिरीश्वरम् ॥ १ ॥ स्थाने देशः सुराष्ट्राख्यां बिभर्ति भुवनेष्वसौ । यद्भुमिकामिनीभाले गिरिरेष विशेषकः ॥२॥ शृङ्गारयन्ति खङ्गारदुर्ग श्रीऋषभादयः । श्रीपार्श्वस्तेजलपुरं भूषितैतदुपत्यकम् ॥ ३॥ योजनद्वयतुङ्गेऽस्य शृङ्गे जिनगृहावलिः । पुण्यराशिरिवाभाति शरच्चन्द्रांशुनिर्मला ॥ ४ ॥ सौवर्णदण्डकलशामलसारकशोभितम् । चारु चैत्यं चकास्त्यस्योपरि श्रीनेमिनः प्रभोः ॥५॥ श्रीशिवासूनुदेवस्य पादुकाऽत्र निरीक्षिता। स्पृष्टाऽर्चिता च शिष्टानां पापव्यूहं व्यपोहति ॥ ६॥ प्राज्यं राज्यं परित्यज्य जरत्तृणमिव प्रभुः । बन्धून्विधूय च स्निग्धान प्रपेदेऽत्र महाव्रतम् ॥ ७॥ अत्रैव केवलं देवः स एव प्रतिलब्धवान् । जगजनहितैषी स पर्यणैषीच निवृतिम् ॥ ८॥ अत एवात्र कल्याणत्रयमन्दिरमाः । श्रीवस्तुपालो मन्त्रीशश्चमत्कारितभव्यहृत् ॥९॥ जिनेन्द्रबिम्बपूर्णेन्द्रमण्डपस्था जना इह । श्रीनेमे जनं कर्तुमिन्द्रा इव चकासति ॥ १० ॥ गजेन्द्रपदनामास्य कुण्डं मण्डयते शिरः । सुधाविधैर्जलैः पूर्ण स्नानार्हलपनक्षमैः ॥ ११ ॥ शत्रुञ्जयावतारेऽत्र वस्तुपालेन कारिते। ऋषभः पुण्डरीकोऽष्टापदो नन्दीश्वरस्तथा ॥ १२ ॥ सिंहयाना हेमवर्णा सिद्धबुद्धसुतान्विता । कम्राम्रलुम्बिभृत्पाणिरत्राम्बा सङ्घविघ्नहृत् ॥ १३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172