SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ वस्तुपालतीर्थयात्रावर्णनम् प्राप्यादेशममुं प्रभोर्विरचयामासे समासेदुषा प्रागल्भीमुदयप्रभेण चरितं निस्यन्दरूपं गिराम् ॥ ५९॥ किञ्च श्रीमलधारिगच्छजलधिप्रोल्लासशीतयुते स्तस्यश्रीनरचन्द्रसूरिसुगुरोर्माहात्म्यमाशास्महे । यत्पाणिस्मितपद्मवासविकसत्किाल्कसंवासिताः सन्तः सन्ततमाश्रिताः किल मया भृङ्गयेव भान्ति क्षितौ ॥६०॥ श्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीसङ्घभर्तुर्मया भ्रे काव्यदलानि सङ्कटयितुं कर्मान्तिकत्वं परम् । किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जग त्पावित्र्यक्षमपादपङ्कजरजःपुजैः प्रतिष्ठास्पदम् ॥ ६१॥ नित्यं व्योमनि नीलनीरजरुचौ यावत्त्विषामीश्वरो दिक्पालावलिबन्धुरे कुवलये यावच्च हेमाचलः । हृत्पद्म विदुषामिदं सुचरितं तावन्नवाविर्भव त्सौरभ्यप्रसरं चिरं कलयतात् किञ्जल्कलक्ष्मीपदम् ॥ ६२ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिच रिते लक्ष्म्यके महाकाव्ये श्रीवस्तुपालतीर्थयात्रोत्सववर्णनो नाम पञ्चदशः सर्गः । मुक्तेर्मार्गे यदेतद्विरचितमुचितं सङ्घभर्तुश्चरित्रं सत्रं पावित्र्यपात्रं पथिकजनमनःखेदविच्छेदहेतुः । अस्मिन्सौरभ्यगर्भामसमरसवती सत्कथां पान्थसार्थाः ___प्राप्य श्रीवस्तुपाल प्रवरनवरसास्वादमास्वादयन्ति ॥ १॥ श्रीशारदैकसदनं हृदयालवः के नो सन्ति हन्त सकलासु कलासु निष्णाः । तादृक्परस्य ददृशे सुकवित्वतत्वबोधाय बुद्धिविभवस्तु न वस्तुपालात् ॥२॥ नैव व्यापारिणः के विद्धति करणग्राममात्मैकवश्यं लेभे सद्योगसिद्धेः फलममलमलं केवलं वस्तुपालः । आकल्पस्थायि धर्माभ्युदयनवमहाकाव्यनाम्ना यदीयं विश्वस्यानन्दलक्ष्मीमिति दिशति यशोधर्मरूपं शरीरम् ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy