Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
प्राचीनगूर्जरकाव्यसङ्ग्रहः बाल्येऽपि निर्दलितवादिगजौ जगाद
यौ व्याघ्रसिंहशिशुकाविति सिद्धराजः ॥५१॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मसूस्तत्पदे
पूज्यः श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरिव चिराद्यस्मिन्नवस्थानतः
सन्तुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५२॥ श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः । यस्य गिरो धारा इव भवदवभववथुविभवभिदः ॥ ५३॥ पश्चासराहवनराजविहारतीर्थे
प्रालेयभूमिधरभूतिधुरन्धरेऽस्मिन् । साक्षाद्धाकृतभवा तटिनीव यस्य __ व्याख्येयमच्युतगुरुक्रमजा विभाति ॥ ५४॥ भवोटवनावनीविकटकर्मवंशावलि
च्छिदोच्छलितमौक्तिकप्रतिमकीर्तिकर्णाम्बरम् । असिश्रियमशिश्रियद्विततभीव्रतं यतं
क्षितौ विजयतामयं विजयसेनसूरिर्गुरुः ॥५५॥ शिष्यं तस्य प्रशस्यप्रशमगुणनिधि रभ्यदारण्यदाव__ ज्वालाजिहालदीप्तिर्भविकजनविपद्वह्निवादः कपर्दी । देवी चाम्बा निशीथे समसमयमुपागत्य हर्षाश्रुवर्षा__ मेयश्रेयःसुभिक्षाविति निजगदतुर्गद्गदोद्दामनादम् ॥५६॥ नाभूवन्कति नाम सन्ति कति नो नो वा भविष्यन्ति के
किं न कापि कदापि सङ्घपुरुषः श्रीवस्तुपालोपमः । यत्रेत्थं प्रहरन्नहर्निशमहो सर्वाभिसारोडुरो
येनायं विजितः कलिर्विद्धता तीर्थेशयात्रोत्सवम् ॥ ५७॥ तस्मादस्य यशस्विनः सुचरितं श्रीवस्तुपालस्य य
द्वाचास्माकममोघया किल यथाध्यक्षीकृतं सर्वथा । त्वं श्रीमन्नुद्यप्रभ प्रथय तत् पीयूषसर्वङ्कषैः
श्लोकैर्यत्तव भारती समभव..."यते ॥ ५८॥ इत्युक्त्वा गतयोस्तयोरथ पथो दृष्टेः प्रभातक्षणे विज्ञाप्य स्वगुरोः पुरः सविनयं नम्रीभवन्मौलिना ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/05b26c43997cfa344f4c6cfe1fd239db82dfdcedbdd200f9ad1b67807c11ab46.jpg)
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172