SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ वस्तुपालतीर्थयात्रावर्णनम् मन्त्री सत्कृत्य देवार्चनरचनपरानर्चयित्वायमुच्चै___ रम्बाप्रद्युम्नशाम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥ १९ ॥ असाधि साधर्मिकमानदानैरनेन नानाविधधर्मकर्म । अबाधि सा धिक्करणेन माया निर्माय निर्मायमनः सुपूजाम् ॥२०॥ पुरः पुरः पूरयता पयांसि घनेन सान्निध्यकृता कृतीन्दुः। स्वकीर्त्तिवन्नव्यनदीर्ददर्श ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥२१॥ इति प्रतिज्ञामिव नव्यकीर्तिप्रियः प्रयाणैरतिवाह्य वीथीम् । आनन्दनिस्यन्दविधिर्विधिज्ञः पुरं प्रपेदे धवलककं सः ॥ २२॥ समं तेजःपालान्वितपुरजनैर्वीरधवल प्रभुः प्रत्युद्यातस्तद्नु सदनं प्राप्य सुकृती। युतः सङ्घनासौ जिनपतिमथोत्तार्य रथत स्ततः सङ्घस्यार्चामशनवसनाद्यैर्व्यरचयत् ॥ २३ ॥ अथ प्रसादाद्भूभर्तुः प्राप्य वैभवमद्भुतम् । मन्त्रीशः सफलीचक्रे स्वमनोरथपादपम् ॥ २४ ॥ भक्त्याखण्डलमण्डपं नवनवश्रीकेलिपर्यद्धिका वर्य कारयति स्म विस्मयमयं मन्त्री स शत्रुञ्जये । यत्र स्तम्भनरैवतप्रभुजिनौ शाम्बाम्बिकालोकन प्रद्युम्नप्रभृतीनि किश्च शिखराण्यारोपयामासिवान् ॥ २५ ॥ गुरुपूर्वजसम्बन्धिमित्रमूर्त्तिकदम्बकम् । तुरङ्गसङ्गतं मूर्तिद्वयं स्वस्यानुजस्य च ॥ २६ ॥ शातकुम्भमयान् कुम्भान्पश्च तत्र न्यवेशयत् । पञ्चधा भोगसौख्यश्रीनिधानकलशानिव ॥ २७ ॥ सौवर्ण दण्डयुग्मं च प्रासाद्वितये न्यधात् । श्रीकीर्त्तिकन्दयोरुद्यन्नूतनाङ्करसोदम् ॥ २८ ॥ कुन्देन्दुसुन्दरग्रावपावनं तोरणद्वयम् । इहैव श्रीसरस्वत्योः प्रवेशायैव निर्ममे ॥ २९ ॥ अर्कपालितकं ग्राममिह पूजाकृते कृती। श्रीवीरधवलक्ष्मापाद्दापयामास शासने ॥ ३०॥ श्रीपालिताख्ये नगरे गरीयस्तरङ्गालीलादलितार्कतापम् । तडागमागःक्षयहेतुरेतच्चकार मन्त्री ललिताभिधानम् ॥ ३१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy