Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
परिशिष्टः
[२] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् सुभाषितानांश्च क्रमः ॥ पद्यांशः
सर्ग:/श्लोकः योग्यं सुतं वा शिष्यं वा नयन्ति गुरवः श्रियम् ॥
१/१५५ भवेत्कन्या कुलीना हि पित्रादेशवशंवदा ॥
१/१६१ सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥
१/२२० इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥
१/२५६ न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥
१/२५७ प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥
१/३३० भवेद्वाङ्मनसातीतः प्रभावो हि महात्मनाम् ॥
१/३६२ रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥
१/३६४ विघटन्ते हि कार्याणि प्रतिकूले विधातरि ॥
१/४६८ देवतोपहितानां हि वस्तूनां महिमाऽद्भुतः ॥
१/४९३ तादृशा पुत्ररत्नेन वियुक्तः को न खिद्यते ॥
१/५५४ अन्तर्द्रव्यानुरूपा हि पयस्यामोदसम्पदः ॥
२/६ सुरोपितः फलत्येव सद्यः सुकृतपादपः ॥
२/१९ अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ॥
२/५८ ज्ञात्वा विपन्नं सोदर्यं को हि धैर्यं न मुञ्चति ? ॥
२/११८ न हि क्षुभ्यन्ति शौण्डीराः प्रत्यर्थिषु बहुष्वपि ॥
२/१३७ ग्रहा अपि परक्षेत्रात् श्लाघ्याः स्वं क्षेत्रमागताः ॥
२/१५२ मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यातिहेतवे ॥
२/१७० उड्डामरभुजस्थाम्नामनास्था क्षामधामसु ॥
२/२०४ स एव निधनं गच्छेदिच्छेदत्याहितं सताम् ॥
२/२१६

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862