Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 833
________________ ८१८] [पाण्डवचरित्रमहाकाव्यम् ॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ १०/४०३ वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥ १०/४३९ स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥ १०/४५० बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥ ११/४३ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः ।। कामं धर्मः सुखस्यैव जयस्य प्रतिभूर्नयः ॥ ११/५४ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्षमम्भोराशौ निदेशिनि ॥ ११/५६ को नाम चन्द्रमाः के वा तारकास्तरणे: पुरः ? ॥ ११/६१ आकाशमणिना कीटमणे: स्पर्धाकणोऽपि कः ? ॥ ११/६५ लोभोऽयं लम्भयेत्प्राणसंशयं हि गरूनपि ॥ ११/७९ दम्यते क्वापि केनापि किं केसरिकिशोरकः ? ॥ ११/९४ स्वयं हि निहतै गैराहारं कुरुते हरिः ॥ ११/१०३ न सर:कृतसौहित्यस्तृप्यतीभः कराम्भसा ॥ ११/१०७ नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥ ११/११७ पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ? ॥ ११/११९ महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ ११/१२१ वरं वनं वरं भिक्षा क्षुद् वरं मरणं वरम् । न तु श्रीर्बन्धुसङ्घातघातपातकपङ्किला ॥ ११/१२४ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माद्वन्धुविरुद्धानां न धनं न च बान्धवाः ॥ ११/१२५ कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥ ११/१४७ प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ? ॥ ११/१४९ मांसमाकृष्यते केन सिंहदंष्ट्राकरान्तरात् ? ॥ ११/१५५ ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥ ११/१५९ द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥ ११/१६० भयङ्करः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥ ११/१७० न हंसः श्रयते हन्त वीताम्भोज-वनं वनम् ॥ ११/१७४ व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ? ॥ ११/१७५ सेव्याः किं नाम हंसानामापः प्रावृङ्मलाविला: ? ॥ ११/१७६

Loading...

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862