Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
६८
[ कूपदृष्टान्त
1
साध्ये इति शेषः । कृपदृष्टान्तं = अवटदृष्टान्तं, 'धूमवत्त्वाद्वह्निमत्तया साध्ये पर्वते महानसं दृष्टान्त' इतिवदयं प्रयोगः । अत्र च भगवतश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि महावीरमित्यनेन "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ १ ॥” इति निरुक्तात् सकल पायमूलभूतकर्मविदारणक्षमतपोवीर्य विराजमानत्वाभिधानादपायापगमातिशयः १ त्रिदशेन्द्र नमस्कृतमित्यनेन पूजातिशय: २, महाभागमित्यनेन ज्ञानातिशयः प्रतिपादितः ३, वचनातिशयश्च सामर्थ्य गम्य इति ४ ॥ १ ॥
,
सपरोवयारजणगं, जणाण जह कूवखणणमाइट्ठ ॥
अकसिणपवत्तगाणं, तह दव्वथओ दि विष्णेओ । २ ॥ टाका यथां जनानां कुपखननं निर्मल जलोत्पादनद्वारा स्वपरोपकारजनकमादिष्टम्, एवं अकृत्स्नप्रवर्त्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां द्रव्यस्तवोऽपि स्नानपूजादिकः करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं विज्ञेयः । दृष्टान्ते उपकारो द्रव्यात्मा, दान्तिके च भावात्मेति भावः ||२||
नन्वियं योजनाऽभयदेवसूरिणैव (चतुर्थ) पञ्चाशकवृत्तौ दूषिताऽन्यथायोजना च कृता । तथा हि "न्हाणाइवि जयणाए, आरंभवओ गुणाय नियमेणं । सुहभाव हे उओ खलु विष्णेयं कूवजाएणं ॥ १० ॥ स्नानाद्यपि देहशौचप्रभृतिकमपि आस्तां पूजार्चादि, आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योग:, यत१ . इत प्रारभ्य द्वितीयगाथार्थस्य पूर्ति यावत् पञ्चाशकवृत्तिपाठः ।
-
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140