Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
विशदीकरण गा०1
वरणपञ्चकं, दर्शनावरणनवकं, विघ्नपञ्चकमिति सप्तचत्वारिंशत् । यासां च निजहेतुसद्भावेऽपि नावश्यम्भावी बन्धस्ता अध्रुवबन्धिन्यस्ताश्चोदारिकवैक्रियाहारकशरीराणि, तदुपा. ङ्गानि श्रोणि, संहननषटकं, संस्थानषट्कं, गतिचतुष्कं, खगतिद्विकमानुपूर्वीचतुष्टयं, जिननामोच्छवासनामोद्योतनामाऽऽतपनामपराघातनाम, त्रसदशकं, स्थावरदशकं, गोत्रद्विकं, वेदनीयद्विकं, हास्यादियुगलद्वयं, जातिपञ्चकं, वेदत्रयमायुश्चतुष्टयमिति त्रिसप्ततिः । एतासां निजहेतुसद्भावेऽप्यवश्यंबन्धाभावात् । ___ तथाहि-पराघातोच्छ वासनाम्नोः पर्याप्तनाम्नैव सह बन्धो नाऽपर्याप्तनाम्नाऽतोऽध्र वबन्धित्वम् । आतपं पुनरेकेन्द्रियप्रायोग्य प्रकृतिसहचरितमेव बध्यते नान्यदा। उद्योतं तु तिर्यग्गतिप्रायोग्यबन्धितव सह । आहारकद्विकजिननाम्नी अपि यथाक्रमं संयमसम्यक्त्वप्रत्ययेनैव बध्येते नान्यदेत्यध्रुवबन्धित्वम् । शेषशरोरादिषट्षष्टिप्रकृतीनां सविपक्षत्वान्निजहेतुसद्भावेऽपि नाऽवश्यं बन्ध इति तथात्वं सुप्रतीतम् ।
तत्र ध्रुवबन्धिनीषु भङ्गत्रयम्, अनाद्यनन्तो बन्धः, अनादिसान्तः, सादिसान्तश्च । तत्र प्रथमभङ्गकः सर्वासामपि तासामभव्याश्रितः, तद्बन्धस्यानाद्यनत्वादिति । द्वितीयभङ्गकस्तु ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तराय-पञ्चकलक्षणानां चतुर्दशप्रकृतीनाम्, अनादिकालात् सन्तानभावे प्रवृत्तस्य बन्धस्य सूक्ष्मसम्परायचरमसमये यदा व्यवच्छेदः तदा । आसामेव चतु
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140