Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
ረሪ
[] कूपदृष्टान्त
देशप्रकृतीनामुपशान्तमोहे यदाऽबन्धकत्वमासाद्याऽऽयुःक्षयेणाद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बन्धेन सादिबन्धं विधाय भूयोऽपि सूक्ष्म सम्पराय चरमसमये यदा बन्धविच्छेदं विधत्ते तदा तृतीयः । संज्वलन कषायचतुष्कस्य तु सदैव प्रवत्तबन्धभावस्य यदाऽनिवृत्तिबादरादिबन्धविच्छेदं विधत्ते तदा द्वितीयः । ततः प्रतिपतितस्य पुनर्बन्धेन संज्वलनबन्धं सादि कृत्वा कालान्तरेनिवृतिबादरादिभाव प्राप्तौ तद्बन्धविच्छेद समये तृतीयः । निद्राप्रचलातैजस- कार्मण वर्णचतुष्काऽगुरुलघूपघातनिर्माणभयजुगुप्सास्वरूपाणां त्रयोदश प्रकृतीनामनादिकालादनादिबन्धं विधाय यदाऽपूर्वकरणाद्वायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो भङ्गः । यदा तु ततः प्रतिपतितस्य पुनर्बन्धेन सादित्वमासादयन् बन्धः कालान्तरेऽपूर्वकरणमारूढस्य निवर्त्तते तदा तृतीयः । चतुर्णां प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानकं यावदनादिस्ततः प्रमत्तादौ बन्धोपरमात् सान्त इति द्वितीयः । प्रतिपतितबन्धापेक्षया तृतीयः । अप्रत्याख्यानावरणानां त्वविरत सम्यग्दृष्टि यावदनादिबन्धं कृत्वा देशविरतादावबन्धकत्वसमये द्वितीयः । प्रतिपातापेक्षया तृतीयः । मिथ्यात्वस्त्यानद्धित्रिकानन्तानुबन्धिनां तु मिथ्यादृष्टिनादिबन्धको यदा सम्यक्त्वावाप्तो बन्धोपरमं करोति तदा द्वितोयो मङ्गः । पुनमिथ्यात्वे गत्वा तान् बद्ध्वा यदा भूयोऽपि सम्यक्त्वलाभेन बध्नाति तदा तृतीयः । इत्येवं ध्रुवबन्धिनीनां भङ्गत्रयम् । साद्यनन्तभङ्गकस्तु विरोधादेवानुद्भाव्यः । अध्रुवबन्धिनीनां
A
"
.
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140