Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 124
________________ विशदीकरण० गा० ] प्रवृत्तिः = सद्धर्मव्यापारेषु प्रवर्त्तनं जातमनोरथानां यथाशक्ति तदुपाये प्रवृत्तेः । विघ्न जयो मोक्षपथप्रवृत्तिप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याsशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवात् । तथा सिद्धिर्विध्नजयात् प्रस्तुतधर्मव्याणां निष्पत्तिः । तथैव च स्थिरीकरणं = स्वगतपरमधर्मव्यापाराणां स्थिरत्वाधानं परयो जनाध्यवसायेनानुबन्धाऽविच्छेद इति यावत् ! " एत्तो चि ण णियाणं, पणिहाणं बोहिपत्थणासरिसं । सुभावहे उभावा णेयं इहरा पवित्तीय ॥" ( पू० पं० ३० ), इत एव = कुशलप्रवृत्त्यादिहेतुत्वादेव, बोधिप्रार्थनाऽऽरोग्य बोधिलाभसमाधिवरप्रार्थना । इतरथा निदानत्वेऽप्रवृत्तिरन्त्य प्रणिधाने स्यात्, सा चाऽनिष्टा । १ " एवं तु इट्ठसिद्धि दव्वपवित्ती उ अण्णहा णियमा । तम्हा अविरुद्धमिणं णेयममत्यंतरे उचिए ।। " ( पू० पं० ३१) एवं पुनः प्रणिधान प्रवृत्ताविष्टसिद्धिः, प्रणिधानयुक्तचैत्यवन्दनस्य भावानुष्ठानत्वेन सकलकल्याणकारित्वात् । द्रव्यप्रवृत्तिस्त्वन्यथा = प्रणिधानं विना नियमात् तस्माद्धेतोरेतत्प्रणिधानमविरुद्धम्, अवस्थान्तर अप्राप्तप्रार्थनीयगुणावस्थायां तच्च 'जयवीअराए'त्यादि । न चेदं निदानं मोक्षाङ्गप्रार्थनात्वाद् बोधिप्रार्थनावत् । तीर्थंकरत्वप्रार्थना चौदयिकभावांशे निदानं, छत्रचामरादि -- विभूतिप्रार्थनाया भवप्रार्थनारूपत्वात् न तु क्षायिकभावांशे, " 1

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140