Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
विशदीकरण० गा० 1
Ζ
त्वध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भङ्गो लभ्यते । अधिकमस्मत्कृत 'कर्मप्रकतिवृत्त्या' देव सेयम् ॥
प्रणिधान प्रधाने तु चंत्यवन्दनेन तदपनोयते । अत एव प्रणिधानाद्याशय राहित्यात् द्रव्य क्रियारूपत्वेन पूजाया द्रव्यस्तवत्वं इत्यत्राह—“दव्वथओ पुप्फारण उ पणिहाणाइ विरहओ चेव, पणिहाणाई अन्ते भिण्णं पूवि तु सामण्णं । दव्वथउ पुप्फाई सन्तगुणकित्तणा भावे" इति नियुक्तिवचनाद् द्रव्येण पुष्पादिना स्तवो द्रव्यस्तव इति व्युत्पत्तिजिनपूजाया द्रव्यस्तवत्वमुच्यते । गुणवत्तया ज्ञानजनकः शब्द इत्यत्र वर्णध्वनिसाधारणं तात्वोष्ठपुटादिजन्यव्यापारत्वं शब्दत्वमिति जन्यान्तपरिहारेण व्यापारमात्रस्यैव ग्रहणौचित्यात् । आलङ्कारिकमते चेष्टादिव्यापारस्य व्यञ्जकस्य ग्रहणावश्यकत्वेनोक्त परिहारस्यावश्यकत्वाच्च । न तु प्रणिधानादिविरहादेव द्रव्यस्तवत्वं, तथा सति तुच्छत्वेनाप्राधान्यरूपद्रव्य पदार्थत्वप्रसङ्गात् । तदुक्तं षोडशके
"प्रणिधि प्रवृत्ति-विघ्न जय-सिद्धिविनियोग-भेदतः प्रायः । धर्मज्ञैराख्यातः, शुभाशयः पञ्चधाऽत्र विधो ॥ १ ॥ प्रणिधानं तत् समये, स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं परार्थनिष्पत्तिसरं च ॥ २॥ तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम् । अधिकृतयत्नातिशया दौत्सुक्य विवर्जिता चैव ॥ ३ ॥
,
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140