Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 119
________________ [ कूपदृष्टान्त____टीका-ध्रुवबन्धिपापस्य ज्ञानावरणादिप्रकृतिकदम्बकरूपस्य हेतुत्वं न द्रव्यस्तवीय हिंसापां वक्तुं युक्तम् । यद्= यस्मात् ध्रुवबन्धा असाध्याः । प्रक्रमाद् द्रव्यस्तवभाविहिंसायाः सामान्यहेतुत्वसद्भावे ह्यवश्यं सम्भविबन्धाः । अत एव यत्र गुणस्थाने तासां व्यवच्छेदस्ततोऽकि सततबन्ध एवेति सादिसान्तादिभङ्गग्रन्थे व्यवस्थितम् । अथाऽसातप्रकृतित्वावच्छिन्न इव पापप्रकृतित्वावच्छिन्नेऽपि हिंसाया हेतुत्वस्य शास्त्रे व्यवस्थितत्वात् “यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेष" इति न्यायात् द्रव्यस्तवस्थलोयहिंसाया ज्ञानावरणोयादि-प्रकृतिविशेषे हेतुत्वम्, भक्तिरागोपनीयमानप्रकृतिविशेषेषु बहुभागपाताच्च तत्राऽल्पतरभागोप निपातेनाल्पत्वमिति चेत् ? तत्राह-तत्त्वे=द्रव्यस्थलीय हिंसायाः ध्रुवबन्धिपापप्रकृतिविशेषहेतुत्वे इतरेतराश्रयता = अन्योन्याश्रयदोषः। द्रअस्तवोयद्रव्यहिंसाया भाव[स्तव]हिंसात्व. सिद्धौ उक्तहेतुत्वसिद्धौ उक्तहेतुत्वसिद्धिः, तत्सिद्धौ च भावहिंसात्वमिति । द्रव्य हिंसा त्वाऽऽसयोगिकेवलिनमवर्जनीया एवं विधे चार्थसमाज सिद्धे चार्थे नियतोक्तहेतुत्वाश्रयणे पौषधादावतिप्रसङ्गस्तदाप्पल्पज्ञानावरणीयादिबन्धानुपरमादिति दिक् ॥ अत्रेयं ध्र वबन्धादिप्रक्रिया-निजहेतुसद्भावे यासामवश्यं भावी बन्धस्ता ध्रुवबन्धिन्यस्ताश्च वर्णचतुष्क, तेजसं, कार्मणमगुरुलघु, निर्माणोपघातभयकुत्सामिथ्यात्वं, कषायाः ज्ञाना

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140