Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ विशदीकरण. गा०] तान्यकर्कशवेदनीयानि भरतादीनामिव । दुःखस्य करणं दुःखनं तद् (न) विद्यते यस्य तद्भावोऽदुःख नता तया। एतदेव प्रपउच्यते-असोयणयाए त्ति देन्यानुत्पादेन, अजूरणयाए – शरीरापचयकारि-शोकानुत्पादनेन, 'अतिप्पणयाए त्ति अश्रुलालादिक्षरणकारिशोकानुत्पादनेन; अपिट्टणयाएत्ति यष्ट्यादिपीडनपरिहारेण, अस्तिावणयाए शरीरपोडानुत्पादनेनेति वृत्तिः। वस्तुतो अनिवर्तनीयाशुभानुबन्धं कर्कशवेदनीयम्, अतादृशम कर्कशवेदनो पम् । वैमानिकादिषु तन्निषेधश्च प्रौढिवादः विशिष्ट विरतिपरिणामजनिताऽशुभानुबन्धापनयापेक्षा या । अन्यथा मिथ्यादर्शनशल्यविरमणस्याऽपि तत्र नैष्फल्यापत्तेः; सर्वसंवरस्य च शैलेश्यामेव सम्भवादिति द्रष्टव्यम् । एतेन "देवेष्वकर्कशवेदनीय कर्म करणनिषेधादेव द्रव्यस्तवस्य न तद्धेतुत्वमिति" दुर्वादिमतमपास्तं, 'ज्ञेया सकामा यमिनामि' ( योगशास्त्रे)त्यादिवदीदृश-प्रौढिवादानामुत्कृष्ट- निषेधपरत्वादन्यथा तदीयभगवद्वन्दनगुणोत्कीर्तनादीनामप्यताशत्वाऽऽपत्तेरिति विभावनीयं सुधोभिः ।। ११ ।। - ननु द्रव्यस्तवे भक्तिजन्यसातावेद्यबन्धेन विरुध्यन्नसातबन्धो मा भूत्, पृथिव्याधुपमर्दात् ज्ञानावरणोयादिबन्धहेतुत्वादेव तस्य हिंसात्वमक्षतमित्याशङ्कायामाह धुवबन्धिपावहेउत्तणं ण दव्वत्थयंमि हिसाए । धुवबन्धा जमसज्झा, तत्ते इयरेयरासयया ॥१२॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140