Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ विशदीकरण० गा० ३-४ ] ७१ पञ्चाशकाष्टकवृत्त्यादौ ( संयोजनं कृतं), तद्विधिविरहे = यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य । विधिभक्त्यादिसाकल्ये तु स्वरूपमपि पापं वक्तुमशक्यमेवेति भावः ॥ ३ ॥ कथमयमाशयः सूरेर्ज्ञात इति चेत् ?, तत्राह - इहरा 'क' हंचि' वयणं, कायवहे कह गु होज्ज पूयाए । न य तारिसी तवस्सी, जंपइ पुण्वावरविरुद्धं ॥ ४ ॥ टीका - इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे 'कथञ्चिद्' वचनं कथं नु भवेत् ? न कथञ्चिदित्यर्थः । न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं विधिविरभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः । अयं भावः - पूजापञ्चाशके जिनाचंने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् " भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहंचि । तहवि तई परिसुद्धा, गिहीण कुत्राहरणजोगा ।। ४२ ।। " इति श्रीहरिभद्रसूरिभिस्समाहितम् । तत्र 'यतनाविशेषेण प्रवर्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणमित्यभयदेवसूरिभिर्व्याख्यातम् तेन विधिविरह एव कायवधः पर्यवस्यति । "प्रमादयोमेन प्राणव्यपरोपणं हिंसे" ति तत्वार्थोक्त हिंसालक्षणसद्भावात् हिंसारूपस्यैव कायवधस्यात्र प्रतिषेध्यत्वात् । जलपुष्पोपनयनादिरूपस्य च पूजाभ्यन्तरीभूतस्य । १. पूजापञ्चाशके हरिभद्रसूरिवचनमिदम् । [ गा० ४२ ]

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140