Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ - [कूपष्टान्तमिति केचिद् अवते। हरिभद्राचार्यास्तु "अभ्युदयफले चाये निश्रेयससाधने तथा चरमे" [षो० १०] इत्याहुः । आये = प्रोतिभक्त्यनुष्ठाने, चरमे= वचनाऽसङ्गानुष्ठाने । ___ दुर्गतनारीज्ञातं चैवं–श्रीमन्महावीरवर्द्धमानस्वामी इक्ष्वाकुकुलनन्दनः प्रसिद्ध सिद्धार्थपार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनित जनमनश्चमत्कारगुणग्रामो ग्रामाक रनगरपृथु पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजगाम । तत्र चाऽमरचरविसरविरचितसमवसरणमध्यमवर्तिनि भगवति धर्मदेशनां विदधति नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभःस्थले मागधोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा तद्विधवरवैश्यादिकपुरजने तथा गन्धधूपपटल प्रभृतिपूजापदार्थव्य ग्रकरकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे भगवतो वन्दनाथं व्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिनिर्गतया कश्चिन्नरः पृष्टः क्वाऽयं लोक एकमुखस्त्वरितं याति ? तेनोक्तं जगदेकबान्धवस्य देहिनां जरामरणरोगशोकदौर्गत्यादिदुःख छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि, केवलमहमतिदुर्गता पुण्यरहिता विहितपूजाङ्गवजितेति । ततोऽरण्याऽऽदृष्टानि मुधा लभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो ! धन्या पुण्या कृतार्था

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140