Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ विशदीकरण० गा.] ७६ नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथा च कथं न तत एकविधकर्मबन्धः ? न च मिश्रं कर्म शास्त्र प्रोक्तं येन मिश्रात्ततो मिश्रं कम बध्येतेत्याशङ्कायामाह सुद्धासुद्धो जोगो, एसो ववहारदंसणाभिमओ। णिच्छयणओ उ रिणच्छई, जोगज्झवसाणमिस्सत्तं ॥७॥ टीका-एष दुर्गतनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालोनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्धः= आंशिकशुद्धयशुद्धिवान् व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहारमात्रसिद्धर्नान्यत्फलम् । निश्चयनयस्तु योगा(गेन)ध्यवसायस्थानानां मिश्रत्वं नेच्छति, अशुभरूपाणां शुभरूपाणां च शास्त्रे प्रतिपादनात तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । ननु(न च)समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात् कथं तदप्रतिपादन मिति वाच्यम्, समूहालम्बनज्ञानस्य विशेषणीयत्वाद्, विध्योपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव, भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्घत्वात् परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् । एकधारारूढे तु भक्तिभावेऽविधि दोषोऽपि निरनुबन्धतया दव्यरूपतामश्नुवंस्तत्र भग्न इवावतिष्ठते । एकधारारूढेऽविधि

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140