________________
विशदीकरण० गा.]
७६ नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथा च कथं न तत एकविधकर्मबन्धः ? न च मिश्रं कर्म शास्त्र प्रोक्तं येन मिश्रात्ततो मिश्रं कम बध्येतेत्याशङ्कायामाह
सुद्धासुद्धो जोगो, एसो ववहारदंसणाभिमओ। णिच्छयणओ उ रिणच्छई, जोगज्झवसाणमिस्सत्तं ॥७॥
टीका-एष दुर्गतनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालोनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्धः= आंशिकशुद्धयशुद्धिवान् व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहारमात्रसिद्धर्नान्यत्फलम् । निश्चयनयस्तु योगा(गेन)ध्यवसायस्थानानां मिश्रत्वं नेच्छति, अशुभरूपाणां शुभरूपाणां च शास्त्रे प्रतिपादनात तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये ।
ननु(न च)समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात् कथं तदप्रतिपादन मिति वाच्यम्, समूहालम्बनज्ञानस्य विशेषणीयत्वाद्, विध्योपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव, भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्घत्वात् परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् ।
एकधारारूढे तु भक्तिभावेऽविधि दोषोऽपि निरनुबन्धतया दव्यरूपतामश्नुवंस्तत्र भग्न इवावतिष्ठते । एकधारारूढेऽविधि