________________
७८
[ कूपहष्टान्तततो भगवांस्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत् । यथा= अयं दुर्गतनारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम न पो भविष्यति । स च कदाचित्प्राज्य राज्यसुखमनुभवन् मण्डूकं सर्पण, सपं कुररेण, कुररमजगरेण, तमपि महाहिना ग्रस्यमानमवलोक्य भावयिष्यति, यथा-"एते मण्डूकादयः परस्परं असमाना महाहेर्मु खमवशा विशन्ति, एव. मेतेऽपि जना बलवन्तो दुर्बलान् यथाबलं बाधयन्तो यमराजमुखं विशन्ति" इति भावयंश्च प्रत्येकबुद्धो भविष्यति । ततो राज्यसम्पदमवधूय श्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति" इति गाथार्थः ॥ ६॥ . यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति"भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणादो। एत्तो विसुद्धभावो, अणुहवसिद्धोच्चिअ बुहाणं" ।
तथा
"एसो चेव इहं विहि-विसेसओ सब्वमेव जत्तेणं । जह रेहंति तह सम्म, कायव्यमणण्णचिठेणं ।। वत्थेण बंधिळणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तहा, देहम्मि बि कंडुयणमाइ ॥" [पूजापञ्चाशके गा. ११-१९-२०] ॥ इत्यादि ।