________________
विशदीकरण० गा०६ ]]
७७ कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवापम्' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततः सा विहितपूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कलेवरमवनिपोठलोठितमवलोक्याऽनुकम्पापरीतान्त:करणो लोको मूछितेयमिति मन्यमानोऽम्भसा सिषेच। ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, “भगवन् ! असौ वृद्धा किं मृतोत जीवतीति ?" भगवांस्तु व्याजहार यथा"मृताऽसौ देवत्वं चावाप्ता"। ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधि: पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् । यथा-- "अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति" ततो भगवान्गम्भीरां धर्मकथामकथयत्, यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति । यतः।
"इक्कंपि उदगबिन्दु, जह पक्खित्तं महासमुइंमि । जाए अक्खयमेवं, पूयावि जिणेसु विन्नेया ।। उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धो, पूयाए जिणवरिंदाणं ।।
[पूजा-पञ्चा० गा० ४७-४८] इति ।