Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ विशदोकरण० गा०] गृहिणः = गृहस्थाः, तेन हेतुना, तेषां गृहिणां, विज्ञेयाः= ज्ञातव्याः, तन्निवृत्ति फलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभारम्भ निवृतिप्रयोजनैव । भवति हि जिनपूजा जनितभावविशुद्धिप्रकर्षेण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः। तथा जिनपूजाप्रवृत्तिकाले चाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते । एषा = जिन पूजा, परिभावनीयं = पर्यालोचनीयम्, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते, इति गाथार्थः" इति पञ्चाशक वृत्ती। 'यतनातो न च हिंसा, यस्मादेषेव तन्निवृत्तिफला। तदधिक निवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥ १६ ॥" [षोड० ६] अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे "नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यतामापन्नमिति चेत् ? आपद्यतां नाम भूमिकाविशेषापेक्षया, को दोषः ? अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ते'' ति भगवतीवृत्तावुक्तम् । अत्र यतिधर्माशक्तत्वम् असदारम्भप्रवृत्तत्वम् अधिकारिविशेषणं द्रष्टव्यम् । कूपज्ञातान्यथानुपपत्त्या पूजादिकाले द्रव्याहिंसाजनितं पापमवर्जनीयमेव, आज्ञायोगादाहारविहारादिकं साधूनां न दुष्टमिति चेत् ?

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140