________________
विशदीकरण० गा० ३-४ ]
७१
पञ्चाशकाष्टकवृत्त्यादौ ( संयोजनं कृतं), तद्विधिविरहे = यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य । विधिभक्त्यादिसाकल्ये तु स्वरूपमपि पापं वक्तुमशक्यमेवेति भावः ॥ ३ ॥ कथमयमाशयः सूरेर्ज्ञात इति चेत् ?, तत्राह -
इहरा 'क' हंचि' वयणं, कायवहे कह गु होज्ज पूयाए । न य तारिसी तवस्सी, जंपइ पुण्वावरविरुद्धं ॥ ४ ॥
टीका - इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे 'कथञ्चिद्' वचनं कथं नु भवेत् ? न कथञ्चिदित्यर्थः । न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं विधिविरभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः ।
अयं भावः - पूजापञ्चाशके जिनाचंने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् " भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहंचि । तहवि तई परिसुद्धा, गिहीण कुत्राहरणजोगा ।। ४२ ।। " इति श्रीहरिभद्रसूरिभिस्समाहितम् । तत्र 'यतनाविशेषेण प्रवर्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणमित्यभयदेवसूरिभिर्व्याख्यातम् तेन विधिविरह एव कायवधः पर्यवस्यति । "प्रमादयोमेन प्राणव्यपरोपणं हिंसे" ति तत्वार्थोक्त हिंसालक्षणसद्भावात् हिंसारूपस्यैव कायवधस्यात्र प्रतिषेध्यत्वात् । जलपुष्पोपनयनादिरूपस्य च पूजाभ्यन्तरीभूतस्य ।
१. पूजापञ्चाशके हरिभद्रसूरिवचनमिदम् । [ गा० ४२ ]