________________
[कूपदृष्टान्तणपुण्यबन्धकारणं भवतीति । ___ इह केचिन्मन्यन्ते- पूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणम्, ततः किलेदमित्थं योजनीयं यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्य कारणं स्यादिति । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात् , कथमन्यथा भगवत्यामुक्तं "तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएण अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते ! किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे बहुत रया से णिज्जरा कज्जइ'। तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणक प्रायश्चित्तप्रतिपत्ति. रपि कयं स्यात् ? इत्यलं प्रसङ्गेनेति गाथार्थ इति" ॥२॥
तदेतन्निह नुवतां कूपदृष्टान्तविशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति, स्वसम्मताभियुक्तवचनविरुद्धत्वादित्याशङ्कायां नाभियुक्तवचन विरोधो बोधोन्मुखानामवभासते, तस्य भिन्नतात्पर्यकत्वादित्याशयवानाह
ईसि दुटुत्ते जं, एयस्स नवंगिवित्तिकारेणं ।
संजोयणं कयं तं, विहिविरहे भत्तिमहिकिच ॥३॥ टोका-ईषदुष्टत्वे=अल्पपापबहुनिर्जराकारणत्वे, यद् एतस्य-कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा