________________
६६
बिशदीकरण० गा० २] नया = रक्षयितुं शक्यजोवरक्षण रूपया । तत्किं साधोरपीत्याश
याह-आरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवापमर्दयुक्तस्य गृहिण इत्यर्थः । न पुनः साधोः, तस्य सर्वसावद्ययोगविरतत्वाद्भावस्तवा रूढत्वाच्च । भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्त वोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्तस्य च स्वत एव सिद्धत्वात् । इमं चार्थ प्रकरणान्तरे स्वयमेव वक्ष्यतीति । गुणाय =पुण्यबन्ध-लक्षणोपकाराय, नियमेन == अवश्यम्भावेन । अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणायेत्याह - ‘सुहभावहे उओ' त्ति लुप्तभावप्रत्ययत्वेन निर्दशस्य, शुभभावहेतुत्वात् ==प्रशस्तभावनिबन्धनत्वाज्जिनपूजार्थस्नानादेः, अनुभवन्ति च केचित्स्न!नपूर्वक जिनार्चनं विदधानाः शुभभावमिति । खलुक्यिालङ्कारे, विज्ञेयं =ज्ञातव्यम् । अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कूपज्ञातेन =अवटोदाहरणेन । इह चैवं साधनप्रयोगः ‘गुण कर मधिकारिणः किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वाद्, यद् विशिष्टशुभभावहेतुभूतं तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्ट शुभभाव हेतुश्च यतनया स्नानादि, ततो गुणकरमिति' । कूपवननपक्षे शुभभावः तृष्णा. दिव्युदासेनाऽऽनन्दाद्य वाप्तिरिति। इदमुक्तं भवति, यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय च भवत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्म निर्जर