SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६८ [ कूपदृष्टान्त 1 साध्ये इति शेषः । कृपदृष्टान्तं = अवटदृष्टान्तं, 'धूमवत्त्वाद्वह्निमत्तया साध्ये पर्वते महानसं दृष्टान्त' इतिवदयं प्रयोगः । अत्र च भगवतश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि महावीरमित्यनेन "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ १ ॥” इति निरुक्तात् सकल पायमूलभूतकर्मविदारणक्षमतपोवीर्य विराजमानत्वाभिधानादपायापगमातिशयः १ त्रिदशेन्द्र नमस्कृतमित्यनेन पूजातिशय: २, महाभागमित्यनेन ज्ञानातिशयः प्रतिपादितः ३, वचनातिशयश्च सामर्थ्य गम्य इति ४ ॥ १ ॥ , सपरोवयारजणगं, जणाण जह कूवखणणमाइट्ठ ॥ अकसिणपवत्तगाणं, तह दव्वथओ दि विष्णेओ । २ ॥ टाका यथां जनानां कुपखननं निर्मल जलोत्पादनद्वारा स्वपरोपकारजनकमादिष्टम्, एवं अकृत्स्नप्रवर्त्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां द्रव्यस्तवोऽपि स्नानपूजादिकः करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं विज्ञेयः । दृष्टान्ते उपकारो द्रव्यात्मा, दान्तिके च भावात्मेति भावः ||२|| नन्वियं योजनाऽभयदेवसूरिणैव (चतुर्थ) पञ्चाशकवृत्तौ दूषिताऽन्यथायोजना च कृता । तथा हि "न्हाणाइवि जयणाए, आरंभवओ गुणाय नियमेणं । सुहभाव हे उओ खलु विष्णेयं कूवजाएणं ॥ १० ॥ स्नानाद्यपि देहशौचप्रभृतिकमपि आस्तां पूजार्चादि, आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योग:, यत१ . इत प्रारभ्य द्वितीयगाथार्थस्य पूर्ति यावत् पञ्चाशकवृत्तिपाठः । -
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy