________________
७२ .
[ कूपदृष्टान्त
.. "देहादिनिमित्तं पि हु जे कायवहं मि तह पयट्टन्ति ।
जिणपूआकायवहंमि तेसिमपवत्तणं मोहो' [पू० ४५] । इत्यादिना उपत्यकरणस्याप्यनुज्ञानात् , अप्रवृत्तिनिन्दार्थवादस्य विध्याक्षेपकत्वात् । विधिस्पष्टे च निषेधानवकाशात् । यदि च विधिसामग्र्येऽपि पुष्पजलोपहारादिरूपहिंसादोषोऽत्र परिगण्येत, तदा तस्य पूजा नान्तरीयकत्वेन “कायवहो जइवि होइ उ कहंचि" ति नावक्ष्यदाचार्यः, किन्तु "कायवहो होइ जहवि नियमेण मित्येवाऽवक्ष्यत् । अपि च पदार्थ-वाक्यार्थ-महावाक्यार्थ-ऐदम्पर्थिविचारणायां हिंसासामान्यस्य निषेधस्य अविधिनिषेधपरताया एव व्यवस्थितत्वात् विधिसामग्र्ये न हिंसादोषः, अन्यथा चैत्यगृह-लोचकरणादौ तत्सम्भवो दुनिवार इत्यादिसूक्ष्ममीक्षितमुपदेशपदादौ। ___ एतेन "कहन्न भन्ते जीवा अप्पाउत्ताए कम्मं पगरेंति ? पाणे अइव इत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता एवं खलु जीवा अप्पाउयत्ताए कम्मं पगरन्ति" इत्यत्र अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफल मिति व्याख्याय(तम्)।
अन्ये तु यो जीवो जिनसाधुगुण पक्षपातितया तत्पूजार्थ पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिना आधाकर्मादिकरणेन च प्राणातिपातादिषु वर्तते तस्य वधादिविरतिनिर१. अ० ७, सू०८।