________________
विशदीकरण० गा०] वद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादिविशेषस्य अवश्यं वाच्यत्वात्, अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्य हेतो: कार्यवैषम्यं युज्यते । अपि च अल्पतरपापबहुत रनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नेवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता । न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते जिनपूजाद्यनुष्ठानस्याऽपि तथात्वप्रसङ्गादिति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्य ति द्रष्टव्यम्। अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात् ।
'काऊण जिणायणेहि मण्डियं सयलमेइणीवी दाणाइच उक्केण वि सुठु वि गच्छिज्ज अच्चुग्रं न परओ" ति महानिसीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात् । किञ्च"संविग्गभावियाणं, लुद्धयदिद्वैतभावियाणंच। मुत्तूणखित्तकालं, भावं च कहंति सुद्ध छ ।' त्येतत्पर्यालोचनया लुब्धकदृष्टान्तभावितानामागमार्थाऽव्यु
१. बृ० क० भा० गा० १६०७ ।