________________
[ कूपदृष्टान्तत्पन्नानामेव अशुद्धदानसम्भवस्तादृशानामेव च जिनपूजासम्भवोऽपि विधिवैकल्यवानेव सम्भवतीति । ___ यत्तु-'गुणवते पात्राय (या)ऽप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भान्निर्जरा, व्यवहारतो जीवघातेन चारित्रबाधनाच्च पापं कर्म, तत्र स्वहेतुसामर्थ्या(त्या)पेक्षया बहुतरा (निर्जरा) निर्जरापेक्षया च अल्पतरं पापं भवति तच्च कारण एव, यत उक्तं
“संथरणंमि असुद्धं दुन्न वि गिह गंतदं (?दि) तयाणऽहियं । आउरदिट्ठतेणं तं चेव हियं असंथरणे"१ तद्गीतार्थान्यतरपदबैकल्य एव युज्यते, तत्साकल्ये स्वल्पस्यापि पापस्याऽसम्भवात्, व्यवहारतो बाधकस्याबाधकत्वात् । स्वहेतुसामर्थ्यस्य द्रव्यभावाभ्यामुपपत्तेः । अयमेवातिदेशो विधिशुद्धजिनपूजायां द्रष्टव्यः ।
अन्यस्त्वकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निर्जरा अल्पतरं च पापकर्मेति च प्रतिपादितम्, परिणामप्रामाण्यात् । “संथरणंमी." त्यादी अशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति च व्यवहारतः संयमविराधकत्वात् । दायकस्य लुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन च देवगतो शुभाल्पाऽऽयुष्कतानिमित्तत्वादिति योजितम् । अयमतिदेशोऽव्युत्त्यु(त्प)न्नीयपूजायां दृष्टव्य इति ॥ ४॥
तदिदमखिलम्मनसिकृत्याह१. निशीथभाष्य० गा० १६५० ।