________________
विशदीकरण० गा० ५-६]
सम्भावणे विसद्दो, विद्रुतोऽनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥५॥
टोका-सदोषमपि स्नानादि (दी)त्यत्रापिशब्दः सम्भावने, तेन (न) सर्व सदोषमेव, यतनादिसत्त्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्धजिनपूजायामननुगुणोऽननुकूलः । सूरिः =अभयदेवसूरिः पुनः, सामान्यानुमितौ-स्नानत्वपूजात्वाद्यबच्छेदेन निर्दोषत्वानुमतौ "न चैतदाऽऽगमानुपाती" त्यादिना अंशतो बाधं प्रदर्शयति । विधिविरहितायाः पूजायाः कर्दमोपलेपादितुल्योऽल्पदोषो दुष्टत्वात् । भवति चांशतो बाधप्रतिसन्धानेऽवच्छेदकावच्छेदेनाऽनुमितिप्रतिबन्धः । सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधोभिः ॥ ५ ॥
ननु परिमाण (णाम)प्रामाण्ये विधिगैगुण्येऽपि को दोष इत्याशङ्क्याह
दुग्गयनारीणाया, जइवि पमाणीकया हवइ भत्ती। तहवि अजयणाजणिआ, हिंसा अन्नाणो होई ॥६॥
टीका-दुर्गतनारीज्ञाताद् यद्यपि प्रमाणीकृता भवति भक्तिः, तथापि अयतनाजनिता हिंसाऽज्ञानतो भवति, 'प्रमादानाभोगाभ्यां प्राणभूतानि हिनस्तीति वचनात् । तथा च तत्र आचार्योक्तिः कूपदृष्टान्त उपतिष्ठत एव । अव्युत्पत्त्ययतनाजनितस्य दोषस्योत्तरशुभभावदृष्टय व शोधयितुं शक्यत्वात् । भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य परम्परया मुक्तिजनक