Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ विशदीकरण० गा०] वद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादिविशेषस्य अवश्यं वाच्यत्वात्, अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्य हेतो: कार्यवैषम्यं युज्यते । अपि च अल्पतरपापबहुत रनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नेवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता । न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते जिनपूजाद्यनुष्ठानस्याऽपि तथात्वप्रसङ्गादिति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्य ति द्रष्टव्यम्। अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात् । 'काऊण जिणायणेहि मण्डियं सयलमेइणीवी दाणाइच उक्केण वि सुठु वि गच्छिज्ज अच्चुग्रं न परओ" ति महानिसीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात् । किञ्च"संविग्गभावियाणं, लुद्धयदिद्वैतभावियाणंच। मुत्तूणखित्तकालं, भावं च कहंति सुद्ध छ ।' त्येतत्पर्यालोचनया लुब्धकदृष्टान्तभावितानामागमार्थाऽव्यु १. बृ० क० भा० गा० १६०७ ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140