Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 405
________________ पद्मपुराणम् । ३९६ सप्तदशोत्तरशतं पर्व। वाष्पविप्लुतनेत्रास्ते संभ्रान्तमनसोऽविशन् । भवनं पद्मनाभस्य भरितांजलयो नताः ॥३॥ विषादिनो विधिं कृत्वा पुरस्तात्ते महीतले । उपविश्य क्षणं स्थित्वा मंदं व्यज्ञापयनिदम् ।। ४ ।। देव यद्यपि दुर्मोचः शोकोऽयं परमाप्तनः । ज्ञातज्ञेयस्तथापि त्वमेनं संत्यक्तुमर्हसि ॥ ५॥ एवमुक्त्वा स्थितेष्वेषु वचः प्रोच विभीषणः । परमार्थस्वभावस्य लोकतत्त्वविचक्षणः ॥ ६ ॥ अनादिनिधना राजन् स्थितिरेषा व्यवस्थिता । अधुना नेयमस्यैव प्रवृत्ता भुवनोदरे ॥ ७ ॥ जातेनाऽवश्यमर्त्तव्यमत्रसंसारपंजरे । प्रतिक्रियाऽस्ति नो मृत्योरुपायैर्विविधैरपि ॥ ८ ॥ अनाय्ये नियतं देहे शोकस्यालंबनं मुधा । उपायैर्हि प्रवर्त्तन्ते स्वार्थस्य कृतबुद्धयः ॥९॥ आक्रन्दितेन नो कश्चित्परलोकगतो गिरम् । प्रयच्छति ततः शोकं न राजन् कर्तुमर्हसि ॥१०॥ नारीपुरुषसंयोगाच्छरीराणि शरीरिणाम् । उत्पद्यन्ते व्ययन्ते च प्राप्तसाम्यानि बुबुदैः ॥११॥ लोकपालसमेतानामिन्द्राणामपि नाकतः । नष्टयोनिजवेदानां प्रच्युतिः पुण्यसंक्षये ॥ १२ ॥ गर्भक्लिष्टे रुजाकीर्णे तृणबिन्दुचलाचले । क्लेदकैकससंघाते काऽऽस्था मर्त्यशरीरके ॥ १३ ॥ अजरामरणंमन्यः किं शोचति जनो मृतम् । मृत्युदंष्ट्रान्तरक्लिष्टमात्मानं किं न शोचति ॥१४॥ यदा निधनमस्येव केवलस्य तदा सति । उच्चैराक्रन्दितुं युक्तं न सामान्ये पराभवे ॥ १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456