Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम्।
४०२
अष्टादशोत्तरशतं पर्व । आसंस्तस्य भुजच्छायां श्रित्वा मत्ता प्लवंगमाः। सांप्रतं लूनपक्षास्ते परमास्कन्द्यतां गताः॥२९॥ अद्यास्ति द्वादशः पक्षो राघवस्येयुषः शुचम् । प्रेतांगं वहमानस्य व्यामोहः कोऽपरोऽस्त्वतः३० यद्यप्यप्रतिमल्लोऽसौ हलरत्नादिमर्दनः । तथापि लंधितुं शक्यः शोकपंकगतोऽभवत् ॥ ३१ ॥ तस्यैव विभिमस्त्वस्य न जात्वन्यस्य कस्यचित् । यस्यानुजेन विध्वस्ता सर्वास्मद्वंशसंगतिः ३२ अथेन्द्रजितिराकर्ण्य व्यसनं स्वोरुगोत्रजम् । प्रतिद्यासितमार्गेण जज्वाल क्षुब्धमानसः ॥ ३३ ॥ आज्ञाप्य सचिवान् सर्वान् भेयों संयति राजितान् । प्रययौ प्रति साकेत सुन्दतोकसमन्वितः ३४ सैन्याकूपारगुप्तौ तौ सुग्रीवं प्रति कोपिनौ । पद्मनाभमयाशिष्टां प्रकोपयितुमुद्यतौ ॥ ३५ ॥ वज्रमालिनमायातं श्रुत्वा सौदिसमन्वितम् । सर्वे विद्याधराधीशा रघुचन्द्रमशिश्रियन् ॥३६ ।। वितानतां परिप्राप्ता क्षुब्धाऽयोध्या समन्ततः । लवणांकुशयोर्यद्वदागमे भीतिवेपिता ॥ ३७॥ अरातिसैन्यमभ्यर्णमालोक्य रघुभास्करः । कृत्वांके लक्षणं सत्वं वहमानस्तथाविधम् ॥ ३८ ॥ उपनीतं समं बाणैर्बज्रावर्त्तमहाधनुः । आलोकत स्वभावस्थं कृतान्तभूलतोपमम् ॥ ३९ ॥ एतस्मिन्नंतरे नाके जातो विष्टरवेपथुः । कृतान्तवक्त्रदेवस्य जटायुस्त्रिदशस्य च ॥ ४० ॥ विमाने यत्र संभूतो जटायुस्त्रिदशोत्तमः । तस्मिन्नेव कृतान्तोऽपि तस्यैव विभुतां गतः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456