Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 455
________________ पद्मपुराणम् । त्रयोविंशोत्तरशतं पर्व । कुर्वन्त्वथात्र सांनिध्यं सर्वाः समदेवताः । कुर्वाणाः सकलं लोकं जिनभक्तिपरायणम् ॥ १८२ ॥ कुर्वते वचने रक्षा समये सर्ववस्तुषु । सर्वादरसमायुक्ता भव्या लोकसुवत्सलाः ॥ १८३ ॥ व्यंजनान्तं स्वरान्तं वा किंचिन्नामेह कीर्तितम् । अर्थस्य वाचकः शब्दः शब्दो वाक्यमिति स्थितम् ॥ लक्षणालंकृती वाच्यं प्रमाण छंद आगमः । सर्व चामलचित्तेन ज्ञेयमत्र मुखागतम् ॥ १८५ ।। इदमष्टादश प्रोक्तं सहस्राणि प्रमाणतः । शास्त्रमानुष्टुपश्लोकैस्त्रयोविंशतिसंगतम् ॥ १८६ ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मपुराणे बलदेवसिद्धिगमनाभिधानं नाम त्रयोविंशोत्तरशतं पर्व ॥ १२३ ॥ ॥ समाप्तोऽयं ग्रन्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456