Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 453
________________ पद्मपुराणम् । ४४४ Jain Education International हलचक्रभृतोर्द्विषोऽनयोश्च प्रथितं वृत्तमिदं समस्तलोके । कुशलं कलुषं च तत्र बुद्धया शिवमात्मीकुरुतेऽशिवं विहाय ॥ १६९ ॥ अपि नाम शिवं गुणानुबंधि व्यसनस्फीतिकरं शिवेतरम् । तद्विषयस्पृहया तदेति मैत्रीमशिवं तेन न शान्तये कदाचित् ।। १७० ।। यदि तावदसौ नरेन्द्रो व्यसनं प्राप परांगनाहिताशः । त्रयोविंशोत्तरशतं पर्व | निधनं गतवाननंगरागः किमुतान्यो रतिरंगनासुभाव: ( ? ) ॥ १७१ ॥ सततं सुखसेवितोऽप्यसौ य - दशवक्त्रोवरकामिनीसहस्रैः । अवितृप्तमतिर्विनाशमागादितरस्तृप्तिमुपेष्यतीति मोहः ॥ १७२ ॥ स्वलत्रसुखं हितं रहित्वा परकान्ताभिरतिं करोति पापः । व्यसनार्णवमत्युदारमेषः प्रविशत्येव विशुष्कदारुकल्पः ।। १७३ ।। व्रजत त्वरिता जना भवतो बलदेवप्रमुखाः पदं गता यत्र । जिनशासनभक्तिरागरक्ताः सुदृढं प्राप्य यथा बलं सुवृत्तम् || १७४ ॥ सुकृतस्य फलेन जंतुरुच्चैः पदमाप्नोति सुसंपदां निधानम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456