Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 452
________________ पद्मपुराणम् | ४४३ भव्यांभोज पर प्रहर्षजननं संकीर्त्तितं भक्तितः ।। १६५ । निर्दिष्टं सकलैर्नतेन भुवनैः श्रीवर्द्धमानेन यत् । तवं वासवभूतिना निगदितं जंबो : प्रशिष्यस्य च ॥ शिष्येणोत्तरवाग्मिना प्रकटितं पद्मस्य वृत्तं मुनेः । श्रेयः साधुसमाधिवृद्धिकरणं सर्वोत्तमं मंगलम् ॥ १६६ ॥ ज्ञाताशेषकृतान्तसन्मुनिमनः सोपानपर्वावली । पारंपर्यसमाधितं सुवचनं सारार्थमत्यद्भुतम् ।। आसीदिन्द्र गुरोर्दिवाकरयतिः शिष्योऽस्य चान्मुनिस्तस्माल्लक्ष्मणसेन सन्मुनिरदः शिष्यो रविस्तु स्मृतम् ॥ १६७ ॥ सम्यग्दर्शनशुद्धिकारणगुरुश्रेयस्करं पुष्कलं । विस्पष्टं परमं पुराणममलं श्रीमत्प्रबोधिप्रदम् ॥ रामस्याद्भुतविक्रमस्य सुकृतो माहात्म्यसंकीर्त्तनं । श्रोतव्यं सततं विचक्षणजनैरात्मोपकारार्थिभिः ॥ १६८ ॥ Jain Education International त्रयोविंशोत्तरशतं पर्व | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456