Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 450
________________ पद्मपुराणम् । ४४१ त्रयोविंशोत्तरशतं पर्व । त्रिभुवनपरमेश्वरतां यश्च प्राप्तो जिनेन्द्रशासनसक्तः ॥ १५३ ।। निधूतकलुपरजसं सम्यग्दर्शनज्ञानचरित्रमयम् । तं प्रणमत भवमथनं श्रमणवरं सर्वदुःखसंक्षयसक्तम् ॥ १५४ ॥ चेष्टितमनघं चरितं करणं चारित्रमित्यमी यच्छब्दाः । पर्याया रामायणमित्युक्तं तेन चेष्टितं रामस्य ॥ १५५ ॥ बलदेवस्य सुचरितं दिव्यं यो भावितेन मनसा नित्यम् । विस्मयहर्षाविष्टस्वान्तः प्रतिदिनमपेतशंकितकरणः ॥ १५६ ।। वाचयति शृणोति जनस्तस्यायुवृद्धिमीयते पुण्यं च ।। आकृष्टखड़हस्तो रिपुरपि न करोति वैरमुपशममेति ॥ १५७ ॥ किं चान्यद्धार्थी लभते धर्म यशः परं यशसोर्थी। राज्यभ्रष्टो राज्यं प्राप्नोति न संशयोऽत्र कश्चित्कृत्यः ॥ १५८ ॥ इष्टसमायोगार्थी लभते तं क्षिप्रतो धन धनाथीं। जायार्थी वरपत्नी पुत्रार्थी गोत्रनंदनं प्रवरपुत्रम् ॥ १५९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456